दश॒ राजा॑न॒: समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः । स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवन्दे॒वहू॑तिषु ॥
daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ | satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu ||
दश॑ । राजा॑नः । सम्ऽइ॑ताः । अय॑ज्यवः । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । न । यु॒यु॒धुः॒ । स॒त्या । नृ॒णाम् । अ॒द्म॒ऽसदा॑म् । उप॑ऽस्तुतिः । दे॒वाः । ए॒षा॒म् । अ॒भ॒व॒न् । दे॒वऽहू॑तिषु ॥ ७.८३.७